महामाया स्तवन
****************************************
शुक उवाच
भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः |
आत्मसंसारमोक्षाय मायास्तवमलं जगौ ||
भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः |
आत्मसंसारमोक्षाय मायास्तवमलं जगौ ||
शशिध्वज उवाच
ॐ ह्रीङ्कारां सत्त्वसारां विशुद्धां
ब्रह्मादीनां मातरं वेदबोध्याम् |
तन्वीं स्वाहां भूततन्मात्रकक्षां
वन्दे वन्द्यां देवगन्धर्वसिद्धैः ||
ॐ ह्रीङ्कारां सत्त्वसारां विशुद्धां
ब्रह्मादीनां मातरं वेदबोध्याम् |
तन्वीं स्वाहां भूततन्मात्रकक्षां
वन्दे वन्द्यां देवगन्धर्वसिद्धैः ||
लोकातीतां द्वैतभूतां समीडे
भूतैर्भव्यां व्याससामासिकाद्यैः |
विद्वद्गीतां कालकल्लोललोलां
लीलापाङ्गक्षिप्तसंसारदुर्गाम् ||
भूतैर्भव्यां व्याससामासिकाद्यैः |
विद्वद्गीतां कालकल्लोललोलां
लीलापाङ्गक्षिप्तसंसारदुर्गाम् ||
पूर्णां प्राप्यां द्वैतलभ्यां शरण्यां
आद्ये शेषे मध्यतो या विभाति |
नानारूपैर्देवतिर्यङ्मनुष्यैः
तामाधारां ब्रह्मरूपां नमामि ||
आद्ये शेषे मध्यतो या विभाति |
नानारूपैर्देवतिर्यङ्मनुष्यैः
तामाधारां ब्रह्मरूपां नमामि ||
यस्या भासा त्रिजगद्भाति भूतैः
न भात्येतत्तदभावे विधातुः |
कालो दैवं कर्म चोपाधयो ये
तस्या भासा तां विशिष्टां नमामि ||
न भात्येतत्तदभावे विधातुः |
कालो दैवं कर्म चोपाधयो ये
तस्या भासा तां विशिष्टां नमामि ||
भूमौ गन्धो रसताऽप्सु प्रतिष्ठा
रूपं तेजस्येव वायौ स्पृशत्वम् |
खे शब्दो वा यच्चिदा भाति नाना
तामभ्येतां विश्वरूपां नमामि ||
रूपं तेजस्येव वायौ स्पृशत्वम् |
खे शब्दो वा यच्चिदा भाति नाना
तामभ्येतां विश्वरूपां नमामि ||
सावित्री त्वं ब्रह्मरूपा भवानी
भूतेशस्य श्रीपतेः श्रीस्वरूपा |
शची शक्रस्यापि नाकेश्वरस्य
पत्नी श्रेष्ठा भासि माये जगत्सु ||
भूतेशस्य श्रीपतेः श्रीस्वरूपा |
शची शक्रस्यापि नाकेश्वरस्य
पत्नी श्रेष्ठा भासि माये जगत्सु ||
बाल्ये बाला युवती यौवने त्वं
वार्धक्ये या स्थविरा कालकल्पा |
नाना कार्यैर्यागयोगैरुपायैः
ज्ञानातीता कामरूपा विभासि ||
वार्धक्ये या स्थविरा कालकल्पा |
नाना कार्यैर्यागयोगैरुपायैः
ज्ञानातीता कामरूपा विभासि ||
वरेण्या त्वं वरदा लोकसिद्धा
साध्वी धन्या लोकमान्या सुकन्या |
चण्डी दुर्गा कालिका कालिकाख्या
नाना देशे रूपवैषैर्विभासि ||
साध्वी धन्या लोकमान्या सुकन्या |
चण्डी दुर्गा कालिका कालिकाख्या
नाना देशे रूपवैषैर्विभासि ||
तव चरणसरोजं देवि देवादिवन्द्यं
यदि हृदयसरोजे भावयन्तीह भक्त्या |
श्रुतियुगकुहरे वा संश्रुतं धर्मसम्पत्
जनयति जगदाद्ये सर्वसिद्धिं च तेषाम् ||
यदि हृदयसरोजे भावयन्तीह भक्त्या |
श्रुतियुगकुहरे वा संश्रुतं धर्मसम्पत्
जनयति जगदाद्ये सर्वसिद्धिं च तेषाम् ||
मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् |
मार्काण्डेयादवाप्यापि सिद्धिं लेभे शशिध्वजः ||
मार्काण्डेयादवाप्यापि सिद्धिं लेभे शशिध्वजः ||
No comments:
Post a Comment